।। बौद्धिकात्मनिर्भरतायाः पथप्रदर्शकं शास्त्रं श्रीमद्भागवतम् ।।

Authors

DOI:

https://doi.org/10.47413/vidya.v2i1.120

Keywords:

श्रीमद्भागवतमहापुराण, शास्त्रे बौधिकात्मनिर्भरता, आत्मनिर्भरता

Abstract

विषयोऽस्ति बौद्धिकात्मनिर्भरतायाः पथप्रदर्शकं शास्त्रं श्रीमद्भागवतम्।। यतो हि लोके सर्वत्र दरिदृश्यमानः श्रीमद्भागवतमहापुराणस्य प्रभावः न केवलं वर्तमानस्थितावेवापि तु यदारभ्यास्य प्रथमं सत्रं सञ्जातं तदारभ्य तथावदेव लोके देशे च वर्तते । एवञ्च न केवलोऽयं प्रभावः जनमनोरञ्जनाय, अपि तु जनमनसि ततोऽप्यधिको प्रभावः दृश्यते । अतः चिन्तितोऽयं विषयः ।।

अभ्यासात् प्राप्यते दृष्टिः कर्म सिद्धिप्रकाशिनी ।इत्येवं प्रेरणावचः मनसि निधाय शोधपत्रलिखिप्सया मौलिकं चिन्तनं विधाय गुणात्मकः शोधप्रविधेः आश्रयणं कृतम् । येनायं शोधप्रविधिः मे मनसि सुदृष्टा सुस्पष्टा च भवेत् । अनेनात्र शोधपत्रे समाजे लोके देशे च दृश्यमानः श्रीमद्भागवतमहापुराणस्य प्रभावः कीदृशः?” इति विषयः संगृहितः ।

।। शोधपत्रे बिन्दवः ।।

बौद्धिकात्मनिर्भरतायाः फलोद्देश्यम् ।।

समाजे बौद्धिकात्मनिर्भरतायाः  किमुद्देश्यम् ? किञ्च फलम् ? इतीमं विषयं चर्चिष्यते । यथा – “स्वातंत्र्यम्,स्वावलम्बनम् सद्ज्ञानप्राप्तिः” इति उद्देशप्राप्तये बौद्धिकात्मनिर्भरता मूले अस्ति । तया सिद्धाः सप्तसिद्धयः ।

ताश्च -

  • ज्ञानात्मको विकासः भवति ।
  • समस्यायाः समाधानं लभते ।
  • परापेक्षा व्यपगता भवति ।
  • आत्मविश्वासस्य वृद्धिः भवति ।
  • अग्रणिर्भवति ।
  • दुर्लभं पदं लभते ।
  • पदप्राप्तेः संतोषः जायते ।

बौद्धिकात्मनिर्भरता प्राप्तये श्रीमद्भागवतपुराणस्य का भूमिका ?

"नैकेषु शास्त्रेषु बौधिकात्मनिर्भरताप्राप्तये श्रीमद्भागवतमहापुराणस्य का भूमिका? " इति विषयस्य निरूपणार्थं चत्वारः इमे बिंदवः ।

  • भागवते कथाख्यानोपाख्यानादिषु दृग्गोचरीभूता बौधिकात्मनिर्भरता ।।
  • भागवतपारायणेन प्रेरिता बौधिकात्मनिर्भरता ।।
  • भागवताध्ययनेन दृढा बौधिकात्मनिर्भरता ।।
  • भागवतपाकेन पक्वा बौधिकात्मनिर्भरतायाः माधुर्यम् ।।

।। उपसंहृति: ।।

शोधपत्रेणानेनेदं सिद्धयति यत् - - - 

  • सत्योपासनायै ज्ञानोपसनायै श्रीमद्भागवतमहापुराणप्रेरितः संकल्पितश्चायं मार्ग: बौधिकात्मनिर्भरतायाः मार्ग एव ।
  • श्रीमद्भागवतमहापुराणे वर्तमाना ज्ञानोपासनाया: बौधिकात्मनिर्भरतायाः संकल्पना सुस्पष्टतया दृग्गोचरी भूता जायते ।
  • अद्यापि वर्तमान स्थितौ श्रीमद्भगवतपुराणमाध्यमेन तदुपासकमाध्यमेन च बौधिकात्मनिर्भरतायाः प्रचार: प्रसारश्च सर्वत्र जायते इति सिध्यति ।

बौधिकात्मनिर्भरतायाः श्रीमद्भगवतपुराणमाध्यमेनानेन  संसिध्यति इति मे दृढो विश्वास:।

References

श्रीमद्भागवतमहापुराणम् । (अनेक व्याख्या समलङ्कृतम्, स्कन्धः – १ तः १२), संपादकः – कृष्णशङ्कर शास्त्री, प्रकाशकः, वि.संवत् २०२२.

श्रीमद्भागवतमहापुराणम् । (प्राचीना देवनागरी-वाचना), संपादकः – डॊ. केशवराम काशीराम शास्त्री, प्रकाशिका – श्रीमद्वल्लभ – विश्वधर्म संस्था अहमदाबाद, आवृत्तिः – प्रथमा, वि.संवत् – २०५८.

રામાયણ, મહાભારત અને ભાગવત ચિન્તન અને મન્થન. , લેખક – દિનકર જોષી, પ્રકાશક – પ્રવીણચંદ્ર એમ પટેલ, આવૃત્તિ – પ્રથમ વર્ષ -૨૦૦૬.

શ્રીમદ્ભાગવત-દર્પણ. , લેખક – (મુ.) કૃષ્ણશંકર શાસ્ત્રી, (અનુવાદ) ચતુર્ભુજ તોષનીવાલ, પ્રકાશક – શ્રી ભાગવત વિદ્યાપિઠ, આવૃત્તિ – પ્રથમ, વર્ષ – ૨૦૦૦.

શ્રીમદ્ભાગવત-વૈશિષ્ટ્યમ્. , લેખક – હેમાંગભાઇ શાસ્ત્રી, મુદ્રક – ઓફસેટ પ્રિન્ટર્સ, અમદાવાદ, વર્ષ – ૨૦૦૧.

Downloads

Published

23-02-2023

How to Cite

Pandya, M. (2023). ।। बौद्धिकात्मनिर्भरतायाः पथप्रदर्शकं शास्त्रं श्रीमद्भागवतम् ।।. VIDYA - A JOURNAL OF GUJARAT UNIVERSITY, 2(1), 64–68. https://doi.org/10.47413/vidya.v2i1.120

Issue

Section

Articles